॥ अर्धनारीश्वरस्तोत्रम् ॥ चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय। धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय॥१॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय। कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय॥२॥ झणत्क्कणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय। हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय॥३॥ विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय। समेक्षणायै च विषमेक्षणाय नमः शिवायै च नमः शिवाय॥४॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय। दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय॥५॥ अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय। निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय॥६॥ प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसम्हारकताण्डवाय। जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय॥७॥ प्रदीप्तरत्नोज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय। शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय॥८॥ एतत्पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि धीर्गजीवी। प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्त सिद्धिः॥