॥ कृष्णाष्टकम् ॥ वसुदेवसुतं देवं कम्सचाणूर मर्दनम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्॥१॥ अतसी पुष्पसङ्काशं हार नूपुर शोभितम्। रत्नकङ्कणकेयूरं कृष्णं वन्दे जगद्गुरुम्॥२॥ कुटिलालक सम्युक्तं पूर्णचन्द्र निभाननम्। विलसत् कुण्डलधरं देवं कृष्णं वन्दे जगद्गुरुम्॥३॥ मन्दार-गन्ध सम्युक्तं चारुहासं चतुर्भुजम्। बर्हि-पिञ्छाव-चूडाङ्गं कृष्णं वन्दे जगद्गुरुम्॥४॥ उत्फुल्ल पद्मपत्राक्षं नीलजीमूतसन्निभम्। यादवानां शिरोरत्नं कृष्णं वन्दे जगद्गुरुम्॥५॥ रुक्मिणीकेलि सम्युक्तं पीताम्बर सुशोभितम्। अवाप्त तुलसीगन्धं कृष्णं वन्दे जगद्गुरुम्॥६॥ गोपिकानां कुचद्वन्द्व कुङ्कुमाङ्कित वक्षसम्। श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम्॥७॥ श्रीवत्साङ्कं महोरस्कं वनमाला विराजितम्। शङ्खचक्रधरं देवं कृष्णं वन्दे जगद्गुरुम्॥८॥