॥ शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् ॥ श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय। नामशेषितानमद्भवान्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय॥१॥ कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय। मूलकारणाय कालकाल ते नमः शिवाय पालयाधुना दयालवाल ते नमः शिवाय॥२॥ इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवम्शधूमकेतवे नमः शिवाय सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय॥३॥ आपदद्रिभेदटङ्क हस्त ते नमः शिवाय पापहारिदिव्य सिन्धुमस्तते नमः शिवाय। पापदारिणे लसन्नमस्तते नमः शिवाय शापदोषखण्डनप्रशस्त ते नमः शिवाय॥४॥ व्योमकेश दिव्यभव्यरूप ते नमः शिवाय हेममेदिनीधरेन्द्रचाप ते नमः शिवाय। नाममात्त दग्धसर्वपाप ते नमः शिवाय कामनैकतानहृद्दुराप ते नमः शिवाय॥५॥ ब्रह्ममस्तकावलीनिबद्ध ते नमः शिवाय जिह्मगेन्द्रकुण्डल प्रसिद्धते नमः शिवाय। ब्रह्मणे प्रणीतवेदपद्धते नमः शिवाय जिम्हकालदेहदत्तपद्धते नमः शिवाय॥६॥ कामनाशनाय शुद्धकर्मणे नमः शिवाय सामगान जायमानशर्मणे नमः शिवाय। हेमकान्तिचाकचक्यवर्मणे नमः शिवाय सामजासुराङ्गलब्धचर्मणे नमः शिवाय॥७॥ जन्ममृत्यघोरदुःखहारिणे नमः शिवाय चिन्मयैकरूपदेहधारिणे नमः शिवाय। मन्मनोरथावपूर्तिकारिणे नमः शिवाय सन्मनोगताय कामवैरिणे नमः शिवाय॥८॥ यक्षराजबन्धवे दयालवे नमः शिवाय दक्षपाणिशोभिकाञ्चनालवे नमः शिवाय। पक्षिराजवाहहृच्छयालवे नमः शिवाय अक्षिफाल वेदपूततालवे नमः शिवाय॥९॥ दक्षहस्तनिष्ठजातवेदसे नमः शिवाय अक्षरात्मने नमद्धिडौजसे नमः शिवाय। दीक्षितप्रकाशितात्मतेजसे नमः शिवाय उक्षराजवाह ते सताङ्गते नमः शिवाय॥१०॥ राजताचलेन्द्रसानुवासिने नमः शिवाय राजमाननित्यमन्दहासिने नमः शिवाय। राजकोरकावतम्सभासिने नमः शिवाय राजराजमित्रताप्रकाशिने नमः शिवाय॥११॥ दीनमानवालिकामधेनवे नमः शिवाय सूनबाणदाहकृत्कृशानवे नमः शिवाय। स्वानुराजभक्तरत्नसानवे नमः शिवाय दानवान्धकारचण्डभानवे नमः शिवाय॥१२॥ सर्वमङ्गलाकुचाग्रशायिने नमः शिवाय सर्वदेवतागणातिशायिने नमः शिवाय। पूर्वदेवनाशसम्विधायिने नमः शिवाय सर्वमन्मनोजभङ्गदायिने नमः शिवाय॥१३॥ स्तोकभक्तितोऽपिभक्तपोषिणे नमः शिवाय माकरन्दसारवर्षि भाषिणे नमः शिवाय। एकबिल्वदानतोऽपि तोषिणे नमः शिवाय नैकजन्मपापजालशोषिणे नमः शिवाय॥१४॥ सर्वजीवरक्षणैकशीलिने नमः शिवाय पार्वतीप्रियाय भक्तपालिने नमः शिवाय। दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय शर्वरीशधारिणे कपालिने नमः शिवाय॥१५॥ पाहिमामुमामनोज्ञदेह ते नमः शिवाय देहि मे वरं सिताद्रिगेह ते नमः शिवाय। मोहितार्षिकामिनी समूह ते नमः शिवाय स्वेहित प्रसन्न कामदोह ते नमः शिवाय॥१६॥ मङ्गलप्रदाय गोतुरङ्ग ते नमः शिवाय गङ्गया तरङ्गतोत्तमाङ्ग ते नमः शिवाय। सङ्गरप्रवृत्तवैरि भङ्ग ते नमः शिवाय अङ्गजारये करेकुरङ्ग ते नमः शिवाय॥१७॥ ईहितक्षणप्रदानहेतवे नमः शिवाय आहिताग्निपालकोक्षकेतवे नमः शिवाय। देहकान्ति धूतरोप्यधातवे नमः शिवाय गेहदुःखपुञ्जधूमकेतवे नमः शिवाय॥१८॥ त्र्यक्ष दीनसत्कृपाकटाक्ष ते नमः शिवाय दक्षसप्ततन्तुनाशदक्ष ते नमः शिवाय। ऋक्षराज भानुपावकाक्ष ते नमः शिवाय रक्ष मां प्रपन्नमात्तरक्ष ते नमः शिवाय॥१९॥ न्यङ्कुपाणये शिवङ्कराय ते नमः शिवाय सङ्कटाब्धितीर्ण किङ्कराय ते नमः शिवाय। पङ्कभीषिताभयङ्कराय ते नमः शिवाय पङ्कजाननाय शङ्कराय ते नमः शिवाय॥२०॥ कर्मपाशनाश नीलकण्ड ते नमः शिवाय शर्मदाय नर्यभस्मकण्ठ ते नमः शिवाय। निर्ममर्षि सेवितोपकण्ठ ते नमः शिवाय कुर्महे नतीर्नमद्विकुण्ठ ते नमः शिवाय॥२१॥ विष्टपाधिपाय नम्रविष्णवे नमः शिवाय शिष्टविप्रहृद्गुहाचरिष्णवे नमः शिवाय। इष्टवस्तुनित्य तुष्टजिष्णवे नमः शिवाय कष्टनाशनाय लोकजिष्णवे नमः शिवाय॥२२॥ अप्रमेय दिव्यसुप्रभाव ते नमः शिवाय सत्प्रपन्नरक्षण स्वभाव ते नमः शिवाय। स्वप्रकाश निस्तुलानुभाव ते नमः शिवाय विप्रडिम्भदर्शितार्द्रभाव ते नमः शिवाय॥२३॥ सेवकाय मे मृड प्रसीद ते नमः शिवाय भावलभ्य तावकप्रसाद ते नमः शिवाय। पावकाक्ष देवपूज्यपाद ते नमः शिवाय तावकाङ्घि भक्तदत्तमोद ते नमः शिवाय॥२४॥ भुक्तिमुक्तिदिव्यभोगदायिने नमः शिवाय शक्तिकल्पितप्रपञ्चभागिने नमः शिवाय। भक्तसङ्कटापहारयोगिने नमः शिवाय युक्तसन्मनः सरोजयोगिने नमः शिवाय॥२५॥ अन्तकान्तकाय पापहारिणे नमः शिवाय शान्तमायदन्तिचर्मधारिणे नमः शिवाय। सन्तताश्रितव्यथाविदारिणे नमः शिवाय जन्तुजातनित्य सोख्यकारिणे नमः शिवाय॥२६॥ शूलिने नमो नमः कपालिने नमः शिवाय पालिने विरिञ्चितुण्डमालिने नमः शिवाय। लीलिने विशेषरुण्डमालिने नमः शिवाय शीलिने नमः प्रपुण्यशालिने नमः शिवाय॥२७॥ शिवपञ्चाक्षरमुद्रां चतुष्पदोल्लासपद्ममणिघटिताम्। नक्षत्रमालिकामिह दधदुपकण्ठं नरो भवेत्सोमः॥